Sanskrit Slogans
जातस्य हि घ्रुवो मृत्युर्घ्रुवं जन्म मृतस्य च।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि।।
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्टितात्।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।।
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्।
मोहादुत्पद्यते मृत्युः सत्येनोत्पद्यतेऽमृतम्।।
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।
देहिनोऽ स्मिन्यथा देहे कौमारं यौवनं जरा।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुहयति।।
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः।।
कुसुमसधर्माणि हि योषितः सुकुमारोपक्रमाः।
तास्वनधिगतविश्वासैः प्रसभमुपक्रम्यमाणाः
संप्रयागद्वेषिण्यो भवन्ति। तस्मात्साम्नैवसेपचरेत्।।
असतो मा सद्मय।
तमसो मा ज्योतिर्गमय।
मृत्योर्मा अमृतं गमय।।
मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम।
मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा।।
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चौनं क्लेदयन्त्यापो न शोषयति मारुतः।।
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही।।
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्।।
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते